Jankisharnam — home

जानकीशरणम् मंगलाचरण

नमः परमहंसास्वादितचरणकमलचिन्मकरन्दाय।
भक्तजनमानसनिवासाय श्रीरामचन्द्राय॥

कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम॥

वन्दे विदेहतनयापदपुण्डरीकं
कैश‍ोरसौरभसमाहितयोगिच‍ित्तम्।
हन्त प्रतापनमनुजमुनिहंससेव्यं
सन्मानसालिपरिपीयपरागपुण्यम्॥

नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम्।
पाणौ महाशायकचारुचापं नमामि रामं रघुवंशनाथम्॥

अद्वैतं राघवेशं च श्रीनाथं पुरुषोत्तमम्।
नमामि हृदये भक्त्या मङ्गलार्थं जगद्गुरुम्

शरणं सर्वभूतानां सर्वकल्याणकारकम्।
अद्वैत राघव श्रीनाथं भजेऽहं मङ्गलप्रदम्

श्रीसीतानाथसमारम्भां श्रीरामानन्दार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे श्रीगुरुपरम्पराम्॥

गंगातरङ्गकमनीयजटाकलापं,
गौरीन्तरं विभूषितवामभागम्।
नारायणप्रियमनङ्गमदापहारं,
वाराणसीपुरपतिं भज विश्वनाथम्

लेत सदा सुधि दीन की, सहज दया के धाम।
अद्वैत राघव श्रीनाथ प्रभु, जननी जनक सुखधाम॥

जयघोष

  • सिया वर राम चंद्र भगवान् की जय
  • राधा वर कृष्ण चंद्र भगवान की जय
  • गौरी पति चन्द्रचूड़ भगवान की जय
  • पवन सुत हनुमान जी महाराज की जय
  • जय जय श्री सीताराम जय जय श्री राधेश्याम
  • श्री अद्वैत राघव श्रीनाथाय नमः